Thursday, January 5, 2006

Somānanda’s Śāktavijñāna

The Śāktavijñānam of Somānanda is among the earliest texts to teach a systematic Kuṇḍalinī practise drawn from revealed Śaiva scriptures. It is conceivably a work of the celebrated author of the Śivadṛṣṭi, but further study is needed to confirm this. Note that in verses 19–21 it cites verbatim a passage of the Timirodghāṭana, a very early Kaula scripture which can not have been popular in Kashmir much later than Abhinavagupta. The Timirodghāṭana is quoted by Abhinavagupta in the Parātriṃśikāvivaraṇa p.201 (ed. Gnoli): pīṭheśvaryo mahāghorā mohayanti muhur muhuḥ, the same half-verse is quoted also by Kṣemarāja in his ŚIvasūtravṛtti 1.4: pīṭheśvaryo mahāghorā mohayanti muhurmuhuḥ || iti śrītimirodghāṭaproktanītyanusārataḥ.

This confirms the antiquity of the text, confirms its Kaula nature and offers further evidence for the Kaula origin of Kuṇḍalinī in the opinion of an early named Tantric author. Somānanda does not use the name Kuṇḍalinī, but look at 9d: bhujaṅgakuṭilākṛtiḥ, “With the coiled shape of a serpent…”

(Śāktavijñānam of Somānanda, ed. Jagaddhar Zadoo, Śrīnagara 1947, pp. 47--49)

Thirteen stages of ascent; śākta = kaula
ab: [] स्थानं [] प्रवेशो [] रूपं & [] लक्षं [] लक्षणमेव %sthāna = piṇḍa
cd: [] उत्थापनं [] बोधनं & [] चक्रविश्राममेव
ab: [] भूमिकागमनं चैव & [१०] अन्तावस्था तथैव
cd: [११] विश्रामः [१२] परिणामश्च & [१३] तथागमनमेव
ab: इति त्रयोदशविधं & शाक्तं विज्ञानमुत्तमम् %vijñānam= “esoteric doctrine”
cd: सर्वेषु त्रिकशास्त्रेषु & सूचितं शम्भुना स्वयम्

1. sthānam is the kanda, the “bulb”
ab: नाभ्यध अङ्गुलाः पञ्च & मेढ्रस्योर्ध्वाङ्गुलद्वयम्
cd: तन्मध्ये कन्दनामा & चक्रस्थानमिति स्मृतम्

2. praveśaḥ of breath into the central channel
ab: प्राणापाननिरोधेन & मनस्तत्रैव निःक्षिपेत्
cd: सम्यग्वायुगतिं जित्वा & यावन्मध्यगतां नयेत्

3. rūpam = contemplation
ab: एष प्रवेश इत्याहू & रूपं वक्ष्यामि चाधुना
cd: शृङ्गाटकनिभं चक्रं & षडरं चापरं ध्रुवम्
ab: दाडिमीकुसुमप्रख्यं & कन्दं वै जातिलोहितम् %like a pomegranate flower
cd: एतद्रूपं समाख्यातं & तृतीयं चिन्तनात्मकम्

4. lakṣam = focus
ab: तन्मध्ये निक्षिपेच्चित्तं & यावत्तत्र स्थिरीकृतम्
cd: त्यक्तरुद्धो यदा वायुस् & तदा लक्षं विनिर्दिशेत्

5. lakṣaṇam = observing the focus with kumbhaka
ab: कन्दचक्रस्य मध्यस्था & त्व्नाहतमयी कला
cd: अधोर्ध्वे रेखासंयुक्ता & भुजङ्गकुटिलाकृतिः
१०
ab: ऊर्ध्वाधोऽवस्थितावस्था & सूर्यचन्द्रमसावुभौ %left & right channels
१०cd: सत्यं विराजमाना सा & सहस्रार्कसमप्रभा
११
ab: तामेवालोकयेच्छक्तिं & मनाक्कुम्भकवृत्तिना
११
cd: एतल्लक्षणमुद्दिष्टमुत्थापनमतः परम्

6. utthāpanam = raising
cf.
Matsyendrasaṃhitā 22 kuṇḍalyutthāpanaṃ,
cf.
Paippalādavaśādiṣaṭkarmapaddhati
on
śaktyutthāpanam
१२ab: जुषद्रेचकवृत्त्या तु & मन्त्रं चैव समुच्चरेत्
१२
cd: प्रबुद्धं चिन्तयेच्छक्तिं & दण्डवत्परमेश्वरीम्
१३
ab: आधारमध्याद् आयाता & सुषुम्नामार्गमाश्रिता
१३
cd: उत्थापनं समाख्यातं & बोधनं परतस्तथा

7. bodhanaṃ = awakening
१४ab: कन्दस्थो वेधयेन्नाभिं & ततो हृत्स्थं पितामहम्
१४
cd: कण्ठस्थमच्युतं साक्षाद् & रुद्रं तालुतले स्थितम्
१५
ab: भ्रुवोर्मध्यगतं त्व्ीशं & ब्रह्मद्वारे सदाशिवम्
१५
cd: बोधयित्वा व्रजेदाशु & पदं चानाश्रितं शिवम्
१६
ab: एतद्बोधनमुद्दिष्टं & चक्रविश्रामणं ततः

8. cakraviśrāmaṇaṃ = piercing and resting in the cakrāṇi
१६cd: स्वाभाविकं दलं दीप्तं & द्रवं स्थिरनभोपमम्
१७
ab: अमृतं शेखरं चैव & शक्तिर्ब्रह्मा तथैव
१७
cd: बिन्दुनादं तथा प्रोक्तं & चक्रद्वादशकं किल
१८
ab: वेधयन्ती क्रमाच्छक्तिश् & चक्रे चक्रे प्रतिक्षणम्
१८
cd: विश्रमेत्सा महादेवी & चक्रविश्राम उत्तमः

9. bhūmikāgamanaṃ = stages of progress
19–21 =
Timirodghāṭana 4.8–10,
for the validity of its reading
sṛṣṭisaṃkrānti
see
Timirodghāṭana 6.6.
१९ab: हृदयं कम्पते पूवर्वं & तालुकद्वारमेव
१९
cd: शिरश्च भ्रमते तस्य & दृष्टिसंक्रान्तिलक्षणम्
२०
ab: एकैकं भ्रमयत्यङ्गम् & अङ्गप्रत्यङ्गसन्धिषु
२०
cd: घूर्णते हृदयं चास्य & सम्यग्विद्याप्रभावतः
२१
ab: यानि यानि विकाराणि & अवस्था कुरुते सतः
२१
cd: तेषु तेषु भेतव्यं & क्रीडति परमेश्वरि
२२
ab: अमृते सेयमुन्मत्ता & विकारान्कुरुते बहून्
२२
cd: मलत्रयविकारेण & बहुजन्मसु यत्कृतम्
२३
ab: धुनोति समलान्पाशात् & परशक्तिसमुत्थितान्
२३
cd: भूमिकागमनं प्रोक्तं & अन्तावस्था तथोच्यते

10. antāvasthā = completion
२४ab: यत्संक्रान्तौ रोमहर्षोऽस्रुपातो & जृम्भारम्भो गद्गदा गीर्गिरोऽन्तः
२४
cd: ग्रन्थिस्फोटः स्पर्शदिव्यप्रहर्षो & बिन्दुस्पन्दा नाभिकन्दात्स्फुरन्ति
२५
ab: अन्तावस्था समाख्याता & विश्रामस्त्ववधुनोच्यते

11. viśrāmaḥ = repose
२५cd: नाभिचक्रविनिर्याता & यदा शाक्तिः प्रबुध्यते
२६
ab: तदा त्वस्तमितं सर्वम् & अक्षग्रामं बहिः स्थितम्
२६
cd: यदा सा परमा शक्तिः & सुलीना परमे पदे
२७
ab: तदा विन्दते किं चिद् & विषयी विषयान्तरम्
२७
cd: शिवे विश्राम्यते शाक्तिस् & तदा विश्राम उच्यते

12. pariṇāmaḥ = transformation
२८ab: यत्र विश्रमणं शक्तेर् & मनस्तत्र लयं व्रजेत्
२८
cd: तदात्मा परमात्मत्वे & ज्ञातव्यो निश्चितात्मभिः
२९
ab: शिवीभूतो भवत्यात्मा & परिणामः एव हि

13. āgamanaṃ = return
२९cd: सदा वर्षते दिव्यम् & अमृतं जन्तुजीवनम्
३०
ab: चित्तं तत्र तु सन्धार्य & पुनर् दैवी विशेत् तु सा
३०
cd: तदा त्व् आगमनं प्रोक्तम् & एवं सम्यक् त्रयोदश

इति
श्रीसोमानन्दपादविरचितं शाक्तविज्ञानं संपूर्णम्
शिवमस्तु
लेखकपाठकयोः

No comments:

Post a Comment